SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ शुभवि. नादिमत्त्वादिति २ । विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः अनित्यः शब्दः प्रमेयत्वात् । यस्यान्यथानुपपत्तिः सन्दियते । स्याद्वादमा. सोध्नैकान्तिकः स च द्वेषा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निीता विपक्षे वृत्तिर्यस्य स निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको यथा विवादपदापनः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः अपौरुपैयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ।। विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्युदादिनातिप्रसङ्गात् । व्यतिरकेऽसिद्धतद्वयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् विपरीतव्यतिरेकश्च यत्रामूर्त तन्नापौरुषेयमिति । साधर्म्यण दृष्टान्ताभासो नवधा तत्र साध्यधविकलः १ । साधनधविकलः २ । उभयधविकलः ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनध ५ । सन्दिग्धोभयधर्मा ६ । अनन्वयः ७ । अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च ९ । तत्र साध्यधर्मविकलो यथाऽपौरुपेयः शब्दोऽमूर्त्तत्वात् दुःखवदिति ? । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुवादिति साधनधर्मविकलः २ । मूर्त्तत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच्च साध्यसाधनोभयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ४ । मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा५ । नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान् विवक्षितः पुरुषो क्तृत्वादित्यनन्वयः ७। अनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८ । अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः ९ । इति । वैध Jain Education For Personal & Private Use Only brary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy