________________
येणापि दृष्टान्ताभासो नवधा असिद्धसाध्यव्यतिरेको १ । ऽसिद्धसाधनव्यतिरेको २। सिद्धोभयव्यतिरेकः ३। सन्दिग्धसाध्यव्यतिरेकः ४॥ सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६। ऽव्यतिरेको ७। प्रदर्शितव्यतिरेको ८ विपरीतव्यतिरेकश्च । एषु भ्रान्तमनुमान | प्रमाणत्वाद् यत्पुनर्भ्रान्तं न भवति न तत्प्रमाणं यथा स्वप्मज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वमुज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः ।। निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमिन्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः २। नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः स न सन् तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ । अस-13 शोऽनातो वा कपिलोक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ । अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५। न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितानिजपिशितश-12 कलस्तवया तपनवन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ । न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद् यः पुनतिरागो न स वक्ता यथो-: पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ८ । अनित्यः शब्दः कृतकत्वाद् यदकृतकं तन्नित्यं । राष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ९ । इति । उपनयाभासो यथा परिणामी शब्दः कृतकत्वाद् यः कृतकः स परिणामी यथा कुम्भ| इत्यत्र परिणामीच शब्द इति कृतकश्च कुम्भ इति चेति । इह साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधार्मािण उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्म वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनातवचनप्रभवं ज्ञानमागमाभासः। यथा-मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले मुलभाः
द इत्यव्यतिरेकः ७ । अनित्यायव्यतिरेकः ६ । न वीतरागः कश्चिदिवासनातरागः स करुणास्पदेषु परमकृपया मानव्यतिरेकः ६ ।।
Jain Educat
i onal
For Personal & Private Use Only
A
nnelibrary.org