Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 34
________________ Jain Education शरीररूपाग्नेर्मन्दीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतु कोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्वाजीवा भवन्त्यप्कायाः २ । यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोग निर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोप्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाग्नेयजन्तूनां न च मृता ज्वरिणः कचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामत्रत् १ । तथा आत्मसंयोगपूर्वकोऽङ्गारादीनामूष्मा शरीरस्थत्वात्, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषामुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ | तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषवपुर्वत् ३ । एवमादिळ-क्षणैराग्नेयजन्तवोऽवसेयाः । ३ । यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चाध्यवसीयते । एवं वायावपि चक्षुर्याद्यं रूपं न भवति सूक्ष्मपरिणामात् परमाणोरिव वह्निदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुरपरप्रेरिततिर्यगनियमित दिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच परमाणुना न व्यभिचारस्तस्य नियमितगतिमत्त्वात् जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्चेतनावानवगन्तव्यः ४ । बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथाहि यथा पुरुपशरीरं बालकुमारयुवद्धतापरिणामविशेषत्वात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वर्द्धते तथेदमपि वनस्पतिशरीरमङ्करकिशलयशास्त्रापशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि यतः शमीमपुन्नाटसिद्धेरस कासुन्द कवच्छू लागस्त्यामलकाकडिप्रभृतीनां स्वापविबोधतस्तद्भावः । तथाऽ For Personal & Private Use Only Sinelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138