________________
Jain Education
शरीररूपाग्नेर्मन्दीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुषशरीरशीतलस्पर्शवज्जीवहेतु कोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्वाजीवा भवन्त्यप्कायाः २ । यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोग निर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोप्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाग्नेयजन्तूनां न च मृता ज्वरिणः कचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामत्रत् १ । तथा आत्मसंयोगपूर्वकोऽङ्गारादीनामूष्मा शरीरस्थत्वात्, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषामुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ | तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयादिविकारोपलम्भात् पुरुषवपुर्वत् ३ । एवमादिळ-क्षणैराग्नेयजन्तवोऽवसेयाः । ३ । यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चाध्यवसीयते । एवं वायावपि चक्षुर्याद्यं रूपं न भवति सूक्ष्मपरिणामात् परमाणोरिव वह्निदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुरपरप्रेरिततिर्यगनियमित दिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच परमाणुना न व्यभिचारस्तस्य नियमितगतिमत्त्वात् जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्चेतनावानवगन्तव्यः ४ । बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथाहि यथा पुरुपशरीरं बालकुमारयुवद्धतापरिणामविशेषत्वात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वर्द्धते तथेदमपि वनस्पतिशरीरमङ्करकिशलयशास्त्रापशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पतिशरीरमपि यतः शमीमपुन्नाटसिद्धेरस कासुन्द कवच्छू लागस्त्यामलकाकडिप्रभृतीनां स्वापविबोधतस्तद्भावः । तथाऽ
For Personal & Private Use Only
Sinelibrary.org