Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
शुभवि. कृ.
॥९॥
| १ | श्रोत्रादीन्युपलब्धिसाधनानि कर्तृप्रयोज्यानि करणत्वात् कुठारादीव २ । देहस्यास्ति विधाता आदिमत्प्रतिनियताकारत्वात् घटवत् । यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रविकारः । यश्च देहस्य कर्त्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता करणत्वात् । यथा दण्डचक्रादीनां कुलाल: ४ । विद्यमानभोक्तृकं शरीरं भोग्यत्वात् भोजनवत् यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं कचिदाश्रितं गुणत्वात् रूपादिवत् ६ । तथा ज्ञानमुखादिकमुपादानकारणपूर्वकं कार्यत्वात् घयदिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः व्युत्पत्तिमत्शुद्धपदप्रतिषेधात् यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् यथाऽघटो घटमतिपक्षवान, अत्र हि अघटमयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यं यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो यथा अखरविषाणशब्दः अडित्थ इति वा ।। ८ ।। तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते यथा परशरीरेऽप्यस्त्यात्मा इष्टानिष्ट्योः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्येते च परशरीरे इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे तयोरभावात् यथा घटे ९ । नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव निषेधशब्दत्वात्, यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । इह यस्य निषेधः क्रियते तत्कचिदस्त्येव यथा घटादिकं, निषिध्यते च भवता तस्मादस्त्येवासौ । यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति १० । स च द्विविधो मुक्तः सांसारिकश्च । तत्र मुक्तः सकलकर्ममलक्षयभागेकप्रकारः । सांसारिकचतुर्विधस्सुरनारकमनुष्यतिर्यग्भेदात् । तत्र सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः । नारका रत्नप्रभापृथिव्याद्यधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भजसम्मूर्छजभेदात् । तिर्यचोऽप्येकद्वित्रिचतुःपञ्चे
Jain Educationational
For Personal & Private Use Only
स्याद्वादमा.
॥९॥
Dainelibrary.org
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138