Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 22
________________ Jain Education अनुपलब्धेरपि द्वैरुप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्व । तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारण पूर्वोत्तरसहचरानुपलब्धिभेदात् ॥ ततः स्वभावानुपलब्धिः । १ । व्यापकानुपलब्धिः । २ । कार्यानुपलब्धिः । ३ । कारणानुपलब्धिः । ४ । पूर्वचरानुपलब्धि | ५ | रुत्तरचरानुपलब्धिः । ६ । सहचरानुपलब्धिवेति || ७ | उदाहृतिर्यथा नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २ | नास्त्यत्राम|तिबद्धसामर्थ्याग्निर्धूमानुपलब्धेः ३ । नास्त्यत्र धूमोऽननेः ४ । नोदेष्यति मुहूर्त्तान्ते शकटं कृत्तिकोदयानुपलब्धेः ५ । नोदगाद्भरणिर्मुहर्त्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ७ । इति ॥ विरुद्धानुपलब्धिर्विधौ पञ्चधा | विरुद्ध कार्यकारणस्वभावव्यापकसहचरानुपलंभभेदात् ॥ विरुद्धकार्यानुपलब्धिः । १ । विरुद्धकारणानुपलब्धिः || २ | विरुद्धस्वभावानुपलब्धिः । ३ । विरुद्धव्यापकानुपलब्धिः । ४ । विरुद्धसहचरानुपलब्धिवेति । ५ । उदाहृतिर्यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मकं वस्तु एकान्तस्वरूपानुपलब्धेः ३ । अस्त्यत्र छाया औष्ण्यानुपलब्धेः ४ । अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ इति । परंपरया संभवत्साधनमत्रैवाअन्तर्भावनीयं । अभूदत्र चक्रे शिवकः स्थासात् कार्यकार्यमविरुद्धकार्योपलब्धौ यथा । नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धका - र्योपलब्धौ यथा २ । इति । आप्तवचनाज्जातमर्थज्ञानमागमः । उपचारादाप्तवचनं च । यथा अस्त्यत्र निधिः । सन्ति भेर्वादयः । २ । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः । स च द्वेधा लौकिको लोकोत्त Iational For Personal & Private Use Only anelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138