Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Jinshasan Aradhana Trust
View full book text ________________
वमानः पुनरपरसङ्कहः यथा धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादि । द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिमुवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । सद्विशेषप्रकाशको व्यवहारः ॥ सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकं विभागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः यथा यत्सत्तत् द्रव्यं पर्यायो । वेत्यादि । यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रैति स व्यवहाराभासः यथा चार्वाकदर्शनमिति ३ । प-18
यार्थिकश्चतुर्घा | ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । तत्र शुद्धपर्यायग्राही ऋजसूत्रः ।। ऋज़ वर्तमानक्षणस्थायि । पर्यायमात्र प्राधान्यतः सूत्रयन्नभिमाय ऋजुसूत्रः यथा सुखक्षणः सम्पत्यस्तीत्यादि।सर्वथा द्रव्यापलापी तदाभासः यथा ताथाग-8 तमतमिति ४ । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानःशब्दः। कालादिभेदेन कालकारकलिङ्गसङ्घयापुरुषोपसर्जनभेदेनेति । यथा बभूव भवति भविष्यति सुमेरुरित्यादि । लद्रेदेन तस्य तमेव समर्थयमानस्तदाभासः यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादि ५। पर्यायध्वनिभेदादर्थनानात्वनिरूपकः समभिरूढः ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूदः, शन्दनयो हि पर्यायभेदेप्यभेदमभिप्रेति, समभिरूढस्तु पर्यायभेदे भिन्नानानभिमन्यते अभेदं त्वगतं पर्यायशब्दानामुपेक्षते यथा इन्दनादिन्द्रः शकनात्शक्रः पूर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामभिधेयनानात्वमेव कशीकुर्वाणस्तदाभासः। यथा इन्द्रः शक्रः पुरन्दर ।
Jain Education
tona
For Personal & Private Use Only
Divinelibrary.org
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138