________________
भुभवि.क. रूपावस्थभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तौ परतः स्यादिति । १॥ निश्चयस्तु तस्य परतः कारणगुणज्ञानाद्
स्याद्वादमा. बाकाभावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं पागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीये तु तात्कालिकस्य कालान्तरभाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं तावत् कूटहाटकनिष्टकने स्पष्टमस्त्येव, द्वितीयं तु न चर्मचक्षुषां सम्भवति । २॥ संवादिज्ञानं तु सहकारिरूपं सत्तनिश्चयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहक सत्तद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवर्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानचन्द्रमण्डलद्यदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मित्रस्य चोत्पद्यत एव
३॥ तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा (द् ) भवेन्नाग्रिमं प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञान-2 मेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं तथाहि एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं भिन्नजातीयं च स्तंभकुंभादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्य परतः।३। प्रामाण्यं तूत्पत्तौ दोषापेक्षत्वाद् ज्ञप्तौ तु बाधकापेक्षत्वात्परत एवेति ॥ अत्र ब्रूमः।। यत्तावद्गुणः प्रत्यक्षेणानुमानेन वा मीयेरनित्याकायुक्तं तदखिलं दोषेष्वपि वक्तुं पार्यते । अथ प्रत्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः किं नेमल्यादीन् गुणानपि न ।
अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्यादेवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि नतु दोषरूपमिति विपर्ययकल्पना किं न स्यादिति ॥ १ । यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकामावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधकादेवापामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवा
कायमपि चैतदेकजातीय भिस्तंभकुंभादिज्ञानं कूपपानमा यत्तावद्गुणः प्रत्यक्षणायामान गुणानपि
Jain Education
abonal
For Personal & Private Use Only
IDATinelibrary.org