SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ दकादेव प्रामाण्यस्यापि निणयोस्त्वति तदपि कथं स्वतो निर्णीतं स्यात्, निर्विशेषणं चेदर्थमाकट्यमर्थापत्युत्थापकं तीप्रमाणेऽपि प्रामायनिर्णायकार्थापत्युत्थापनापत्तिरर्थमाकट्यमात्रस्य तत्रापि सद्भावादितिध्येयं ॥ तद द्विविधं प्रत्यक्षंच परोक्षंचा स्पष्टं प्रत्यक्षा प्रबलतरज्ञानावरणवीर्यातराययोः क्षयोपशमात् क्षयादा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुमानाद्याधिक्येन विशेपप्रकाशनं । तद् द्विविधं सांव्यवहारिकं पारमार्थिकं च । बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षं । परमार्थे| भवं पारमार्थिकं मुख्यमात्मसन्निधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति। तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तं च । इन्द्रियाणि चक्षु. रादीनि । तत्र चक्षुर्वानि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपीति कथं न तेन व्यपदेशः, उच्यते इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन च व्यपदेशो दृश्यते यथा पयःपवनातपादिजन्यत्वेप्यङ्करस्य वीजेनैव व्यपदेशः शाल्यड्डरः कोद्रवाडुरोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति । एतद्वितयमवग्रहावायधारणाभेदादेकैकशश्चतुर्विकल्पं । तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । अवगृहीतार्थविशेषाकाङ्कणमीहा । ईहितविशेपनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणेति । कथंचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीपामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाचान्यथा प्रमेयानवगतिप्रसङ्गो, न खल्व. टमवगृह्यते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलक्षणमेपामाशून्पादादुत्पलपत्रशतव्यतिभेदवादिति । पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षं। तद्विकलं सकलं च । असंपूर्णपदार्थपरिच्छे । Jain Education ellational For Personal & Private Use Only C inelibrary.org
SR No.600196
Book TitleSyadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy