Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ शुभवि.कृ. साधकतमं करणम् ' अतिशयितं च साधक साधकतम प्रकृष्ट कारणमित्यर्थः। ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञायते किं तत्कारण- स्याद्वादमा. मित्युच्यते 'कार्यानुकृतान्वयव्यतिरेक कारणं तचात्मेन्द्रियायेव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्त्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा यथा मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणं । ननु । मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणं । सत्यं । द्विविधः सम्बन्धः संयोगाऽविष्वग्भावश्च तत्र साध्यसाधनयोर्गुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंबन्ध इति यावन् । स्वरूपसंवन्धत्वं च संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । नचात्र समवायसवन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धम्समवायः, अयुतसिद्धत्वं च "ताबवायुतसिद्धी द्वौ विज्ञातव्यौ ययोर्द्वयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते ।।१।। इति" तस्मान्मृपिण्डघटयारविपग्भाव एच संबन्धः, मृत्पिण्डचक्रयो विप्वग्भावस्तत्स्वरूपाभावान्नहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डनया अतस्तयाः संयोग एव संवन्धः। निर्वतकं कारणमात्मैव यथा कुम्भकारः कुंभस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा दण्डादयो घटस्य । नदुक्तं । निर्वतको निमित्तं परिणामी च विधेष्यते हेतुः । कुंभस्य कुंभकारोधर्ता मृचेति समसंख्यः॥ १॥" इति । निमित्तकारणं च द्वधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी वैस्रसिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस्रसिक्यव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेक्षाकारणान्युच्यन्ते । | हिताहितपाप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदं । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अतस्मिंस्तदध्यवसायः समारोपः । सच बसंशयविषयविपर्ययानध्यवसायभेदाविधा । तत्र साधकबाधकममाणाभावादनवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः यथायं स्थाणुर्वा पुरुषो वेति ।। Jain Educatio dallational For Personal & Private Use Only Inbrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138