Book Title: Syadwad bhasha Devdharmpariksha Adhyatmopnishad Adhyatmikmatpariksha Yatilakshansamucchay
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ अथ श्रीशुभविजयकृता स्याहादभाषा-प्रारभ्यते. ॥ॐ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयमूरिप्रसादमासाद्य पुनरतुलम् ॥ १ ॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ।। २ ॥ युग्म । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्त्वसंवित्तिः । सम्यक्रिया च सदसत्प्रवृत्तिनिवृत्तिरूप. ताभ्यां मोक्षावाप्तिर्भवतीति । जीवाजीवपण्यपापाश्रवसंवरनिर्जराबधमोक्षास्तत्त्वानि । नच जीवादिनवपदार्थानां सम्यग्ज्ञानं ताकद्भवति यावदेषामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुद्देशः स चात्रैव सूत्रे विहितः । लक्षणं त्वलक्ष्यव्यावृत्तस्वरूपकथनम् यथा घटस्य पृथुबुनोदराद्याकारवत्त्वम् । तथा लक्षितस्य लक्षणं घटते नवेतिविचारः परीक्षा तेनेते लक्षणपरीक्षे जीवादीनां सम्यग्ज्ञानार्थं विधातव्ये । तत्र च मानाधीना मेयसिद्धिरितिन्यायादनुद्दिष्टस्यापि प्रमाणस्य पूर्व लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणं ।। तत्र प्रमाणं लक्ष्यं स्वपरव्यवसायिज्ञानत्वं च लक्षणं । यत्तु 'स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमिति प्रमाणलक्षणं' तन्न घटाको-13 टिमाटीकते, संस्कारसन्निकर्षजन्यस्य सोऽयं घट इति प्रत्यभिज्ञानस्य, एकस्मिन्नेव घटे घटोयं घटोऽयमितिधारावाहिकज्ञानस्य चापामाण्यप्रसङ्गात् । नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं तथाच कार्यस्य करणजन्यत्वनियमात् यथा छिदाया दात्रजन्यत्वमतः करणं वक्तव्यं । सत्यं । स्वपरव्यवसायिज्ञानमेव करणं यथा छिदायां दात्रं । किं पुनः करणं Jain Educati o nal For Personal & Private Use Only viadjainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138