________________
अथ श्रीशुभविजयकृता स्याहादभाषा-प्रारभ्यते. ॥ॐ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयमूरिप्रसादमासाद्य पुनरतुलम् ॥ १ ॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ।। २ ॥ युग्म । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्त्वसंवित्तिः । सम्यक्रिया च सदसत्प्रवृत्तिनिवृत्तिरूप. ताभ्यां मोक्षावाप्तिर्भवतीति । जीवाजीवपण्यपापाश्रवसंवरनिर्जराबधमोक्षास्तत्त्वानि । नच जीवादिनवपदार्थानां सम्यग्ज्ञानं ताकद्भवति यावदेषामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुद्देशः स चात्रैव सूत्रे विहितः । लक्षणं त्वलक्ष्यव्यावृत्तस्वरूपकथनम् यथा घटस्य पृथुबुनोदराद्याकारवत्त्वम् । तथा लक्षितस्य लक्षणं घटते नवेतिविचारः परीक्षा तेनेते लक्षणपरीक्षे जीवादीनां सम्यग्ज्ञानार्थं विधातव्ये । तत्र च मानाधीना मेयसिद्धिरितिन्यायादनुद्दिष्टस्यापि प्रमाणस्य पूर्व लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणं ।। तत्र प्रमाणं लक्ष्यं स्वपरव्यवसायिज्ञानत्वं च लक्षणं । यत्तु 'स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमिति प्रमाणलक्षणं' तन्न घटाको-13 टिमाटीकते, संस्कारसन्निकर्षजन्यस्य सोऽयं घट इति प्रत्यभिज्ञानस्य, एकस्मिन्नेव घटे घटोयं घटोऽयमितिधारावाहिकज्ञानस्य चापामाण्यप्रसङ्गात् । नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं तथाच कार्यस्य करणजन्यत्वनियमात् यथा छिदाया दात्रजन्यत्वमतः करणं वक्तव्यं । सत्यं । स्वपरव्यवसायिज्ञानमेव करणं यथा छिदायां दात्रं । किं पुनः करणं
Jain Educati
o
nal
For Personal & Private Use Only
viadjainelibrary.org