________________
शुभवि.कृ. साधकतमं करणम् ' अतिशयितं च साधक साधकतम प्रकृष्ट कारणमित्यर्थः। ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञायते किं तत्कारण- स्याद्वादमा.
मित्युच्यते 'कार्यानुकृतान्वयव्यतिरेक कारणं तचात्मेन्द्रियायेव यथा मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्त्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा यथा मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणं । ननु । मृत्पिण्डसंबन्ध इव चक्रादिसम्बन्धोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणं । सत्यं । द्विविधः सम्बन्धः संयोगाऽविष्वग्भावश्च तत्र साध्यसाधनयोर्गुणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंबन्ध इति यावन् । स्वरूपसंवन्धत्वं च संबन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । नचात्र समवायसवन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संबन्धम्समवायः, अयुतसिद्धत्वं च "ताबवायुतसिद्धी द्वौ विज्ञातव्यौ ययोर्द्वयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते ।।१।। इति" तस्मान्मृपिण्डघटयारविपग्भाव एच संबन्धः, मृत्पिण्डचक्रयो विप्वग्भावस्तत्स्वरूपाभावान्नहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डनया अतस्तयाः संयोग एव संवन्धः। निर्वतकं कारणमात्मैव यथा कुम्भकारः कुंभस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा दण्डादयो घटस्य । नदुक्तं । निर्वतको निमित्तं परिणामी च विधेष्यते हेतुः । कुंभस्य कुंभकारोधर्ता मृचेति समसंख्यः॥ १॥" इति । निमित्तकारणं च द्वधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी वैस्रसिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस्रसिक्यव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेक्षाकारणान्युच्यन्ते । | हिताहितपाप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदं । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अतस्मिंस्तदध्यवसायः समारोपः । सच बसंशयविषयविपर्ययानध्यवसायभेदाविधा । तत्र साधकबाधकममाणाभावादनवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः यथायं स्थाणुर्वा पुरुषो वेति ।।
Jain Educatio dallational
For Personal & Private Use Only
Inbrary.org