________________
- भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, 'सद्धि'त्ति श्रद्धावान् अश्रद्धावतो हि स्वयममर्यादावर्त्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानर्हत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं ' पुरुषप्रकारः, इह च पह्निः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १ तथा 'सत्यं' सद्भ्यो - जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा 'मेधावि' मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि ग णस्य मर्यादाप्रवर्त्तको भवति, अथवा मेधा - श्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तं च - "सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहियाहियसंपत्तिं संसारुच्छेयणं परमं ? ॥१॥" [ कथं शिष्याणां परमां संसारोच्छेदिनीं ज्ञानादीनामधिकाधिकां संपत्तिं तथाविधः स करिष्यति ? ॥१॥ ] तथा " कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए । कह वा करेउ गच्छं सबालवुड्डाउलं सो उ ॥ २ ॥” इति ४, [ कथं सोऽगीतार्थो यततां कथं वाऽगीतार्थनिश्रया करोतु स बालवृद्धाकुलं गच्छं च स कथं करोतु ( प्रवर्त्तयतु ) १ ॥ १ ॥ ] तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्तं, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अप्पा हिगरण "न्ति अल्पंअविद्यमानमधिकरणं स्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा तद्ध्यनुवर्त्तकतया गणस्याहानिकारकं भवतीति ६, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् - "सुत्तस्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो
Jain Education estonal
For Personal & Private Use Only
www.jainelibrary.org