Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SKSASHASSANSKRISHNA
देव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्-के यूयं किं वा अटथी, ततो गौतमोऽवादीत्-श्रमणा वयं भिक्षार्थ च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत् , ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्-यूयं क वसथ ?, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्र वयं परिवसामः, भदन्त ! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतो महावीरस्य पादान् वन्दितुं?, गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारान्निविण्णोऽहं अनजामीत्यनुजानीतं मां युवां, तावूचतुः-बाल! त्वं किं जानासि?, ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात! यदेवाह जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टां-कथमेतत् ?, सोऽब्रवीत्-अम्बतात! जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियञ्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवत्राज तपः कृत्वा च सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस
आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः॥ आचारदशानामध्ययनविभागमाह-'आयारे'त्यादि, असमाधिः-ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि-पदानि असमाधिस्थानानि-थैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशतिः दुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकम
Jain Educationmenmona
For Personal & Private Use Only
ananjanelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478