SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ SKSASHASSANSKRISHNA देव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्-के यूयं किं वा अटथी, ततो गौतमोऽवादीत्-श्रमणा वयं भिक्षार्थ च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत् , ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्-यूयं क वसथ ?, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्र वयं परिवसामः, भदन्त ! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतो महावीरस्य पादान् वन्दितुं?, गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारान्निविण्णोऽहं अनजामीत्यनुजानीतं मां युवां, तावूचतुः-बाल! त्वं किं जानासि?, ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात! यदेवाह जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टां-कथमेतत् ?, सोऽब्रवीत्-अम्बतात! जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियञ्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवत्राज तपः कृत्वा च सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः॥ आचारदशानामध्ययनविभागमाह-'आयारे'त्यादि, असमाधिः-ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि-पदानि असमाधिस्थानानि-थैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशतिः दुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकम Jain Educationmenmona For Personal & Private Use Only ananjanelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy