SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ AR/ श्रीस्थानागसूत्रवृत्तिः ॥५११॥ ध्ययनमसमाधिस्थानानीति प्रथम, तथा एकविंशतिः 'शबलाः' शबलं-कर्बुरं द्रव्यतः पटादि भावतः सातिचारं चारित्रं, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेव|माना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनं एकविंशतिशबला इत्यभिधीयते २, 'तेत्तीसमासायणा'त्ति ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्ससिद्धास्त्रयस्त्रिंशद्देदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३, 'अट्टे'त्यादि, अष्टविधा गणिसम्पत् आचारश्रुतशरीरवचनादिका आचार्यगुणरिष्ट स्थानकोतरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४, 'दसे'त्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्सादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५, 'एक्कारे'त्यादि, एकादशोपासकानां-श्रावकाणां प्रतिमाः -प्रतिपत्तिविशेषाः दर्शनव्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६, 'बारसेत्यादि, द्वादश भिक्षूणां प्रतिमा:-अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते, 'पज्जो' इत्यादि, पर्याया ऋतुबद्धिका द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते-उज्झ्यन्ते यस्यां सा निरुतविधिना पर्यासवना अथवा परीति-सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः-सर्वथा एकक्षेत्रे जघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुतादेव पर्युषणा तस्याः कल्प:-आचारो मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च 'सक्कोसजोयणं विगइनवय'मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८, 'तीस'मित्यादि, त्रिंश MERCE १० स्थाना. उद्देशः३ छद्मस्थेतराज्ञेयज्ञेयाः कर्मविपाकद शाद्या सू०७५५७५६ भ्यः उपशम्यम्बन्धिन उत्सृज्यन्ते-उज्या यत्राभिधीयन्ते तत्तथोच्यत, ग्यत इति ६, बारसेत्यादि, दादा ॥५११॥ NSCRE dain Education Interraconal For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy