SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ मोहनीयकर्मणो बन्धस्थानानि-बन्धकारणानि 'वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंसई'त्यादिकानि तत्रैव प्रसिद्धान मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९, 'आजाइहाण'मिति आजननमाजातिः-सम्मूर्छनगर्भो. पपाततो जन्म तस्याः स्थानं-संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १०॥ प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोकानां तूपमादीनामध्ययनानाम-8 क्षरार्थः प्रतीयमान एवेति, नवरं 'पसिणाईति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौ. मक-वस्त्रं अहागो-आदर्शः अङ्गुष्ठो-हस्तावयवः बाहवो-भुजा इति ॥ बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहि-राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चो-10 है वाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयो पन्नो महाविदेहे च सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत् , नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच-बाणारस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत्-ते भंते! जवणिज', तथा 'सरिसवया मासा कुलत्था य ते भोज्जा? एगे भवं दुवे भव'मित्यादि, भगवता चैतेषु विभक्केष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकध स्था०८६ dain Education For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy