Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
| देवाह-एवं चिणे'त्यादि, इह चैवमक्षरघटना-चिणत्ति-यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जरा च वाच्या, 'चेव'त्ति समुच्चये नवरं चयनादीनामयं विशेषः-चयनं नाम कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धनं-निकाचनं उदीरणा-करणत उदये प्रवेशनं | वेदन-अनुभवनं निर्जरा-जीवप्रदेशेभ्यः परिशटनमिति । पुद्गलाधिकार एवेदमाह-दसे'त्यादि सूत्रवृन्दं सुगमंच, नवरं दश प्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धा:-समुच्चया इति द्रव्यतः पुद्गलचिन्ता, तथा दशसु
प्रदेशेष्वाकाशस्यावगाढा-आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान स्थितिर्येषां ते तथेति कालतः तथा ५ दशगुणः-एकगुणकालापेक्षया दशाभ्यस्तः कालो-वर्णविशेषो येषां ते दशगुणकालकाः एवमन्यैश्चतुर्भिर्वर्गद्वाभ्यां गन्धा
भ्यां पञ्चभी रसैरष्टाभिः स्पर्शः विशेषिताः पुद्गलाः अनन्ता वाच्याः, अत एवाह-एव'मित्यादि, 'जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्ते'त्यनेन भावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चानन्तशब्दोपादानेन वृ.
यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य * इति ॥ तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारं, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीया
नीति ॥ इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे दशस्थानकाख्यं दशममध्ययनं समाप्त
मिति । ग्रंथाग्रं १७१४॥श्रीः॥ तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्ये★|| वोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तचन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपति
Jain Education
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 475 476 477 478