Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
रवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती पं० १७ लंतते कप्पे देवाणं जहण्णेणं दस सागरोवमाई ठिती पं० १८ (सू० ७५७) 'दसविहे'त्यादि, सूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं-व्यवधानमस्येत्यनन्तरो-वर्तमानः समयः तत्रोपपन्नका है अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समयो नातिकान्तस्त एत इति, येषां तूत्पन्नानां यादयः समया जातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान्-अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्व व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे वितरे, अयं तु द्रव्यकृतो भेद इति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । 'एव'मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुविशतिदण्डकोकानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः अथ तदाधारान् नार
Jain Educat
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478