Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 453
________________ नाणदंसणचरणाणं जो उ पासत्थो ॥ १ ॥ देसंमि उ पासत्थो सेज्जायरभिहडनीयपिडं च । नीयं च अग्गपिंडं भुंजइ निक्कारणे चैव ॥ २ ॥" इत्यादि, [ स पार्श्वस्थो द्विविधो देशतः सर्वतश्च भवति ज्ञातव्यः ज्ञानदर्शमचरणानां यस्तु पार्श्वस्थः स सर्वपार्श्वस्थः ॥ १ ॥ देशतः पार्श्वस्थः शय्यातराभिहृतनित्यपिण्डानि नियताग्रपिंडे च निष्कारणे एव भुनक्ति | ॥ २ ॥ ] ( नियत पिण्डो यथा - मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'नीय' मिति नित्यः सदा अग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेव यो गृह्यत इति > पार्श्वस्थस्य भावः पार्श्वस्थता न साऽपार्श्वस्थता तया ७, तथा शोभनः - पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च - साधुः सुश्रमणस्तद्भावस्तत्ता तया ८, तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं -आगमः प्रवचनं द्वादशाङ्गं तदाधारो वा सङ्घस्तस्य वत्सलता - हितकारिता | प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तथा ९, तथा प्रवचनस्य द्वादशाङ्गस्योद्भावनं- प्रभावनं प्रावचनिकत्वधर्म्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनं तदेव प्रवचनोद्भावनता तयेति १० ॥ एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह - दसविहे आससप्पओगे पं० तं० - इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ दुहतोलोगासंसप्पतोगे ३ जीवियासंसप्पतोगे ४ मरणासंसप्पतोगे ५ कामासंसप्पतोगे ६ भोगासंसप्पतोगे ७ लाभासंसप्पतोगे ८ पूयासंसप्पतोगे ९ सक्कासंप्पतोगे १० (सू० ७५९ ) 'दसे' त्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो - व्यापारः आशंसाप्रयोगः, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478