Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
कग्रामनगराबाशतिरां स्वस्वा न चैतत्तीर्थकृतः जातपूर्वत्वादाश्चय
थिलामवरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकर स्थानोत्पन्ना तीर्थे प्रवर्तितवती-15 त्यनन्तकालजातवादस्य भावास्याश्चर्यतेति ३, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतलोका, श्रूयते हि भगवतो बर्द्धमावस्य जम्भिकग्रामनगराद्धहिरुत्पन्नकेवलस्य तदनन्तरं मिलित चतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्व| मिना कल्पपरिपालगायैव धर्मकथा बभूष, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमार्वमिति ४, तथा कृष्णस्य-नवमवासुदेवस्य अवरकका राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, श्रूयते हि पाण्डवभार्या द्रौपदीधातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थ्य नापहृता, द्वारकाबतीवास्तव्यश्च कृष्णो वासुदेको नारदादुपलब्धतद्व्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणं जलधिमतिक्रम्य पद्मराज रणविमर्देन विजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन पाञ्चजन्यः पूरिता कृष्णेनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति ५, तथा भगवतो महावीरस्य कदनामवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६ तथा हरेः-पुरुषविशेषस्य वंशा-पुत्रपौत्राधिपरम्परा हरिवंशस्तल्लक्षणं यत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एकमेकेतिते हिमालयापेक्षया यसूतीयं हरिचर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना
रणविमीयतस्थितामराजेन
मा०८८
dalin Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478