Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५१८ ॥
क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह - 'दशे' त्यादि, सौधर्म्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादान तारणयोस्तु तदनधिष्ठितत्वं तन्निवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यं, यावत्करणात् 'ईसाणे २ सणकुमारे ३ माहिंदे ४ बंभलोए ५ लंतगे ६ सुक्के ७' त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति |दर्शयितुमाह - 'एएस' इत्यादि, शक्रः- सौधर्मेन्द्रः, शेषा देवलोकसमाननामानः शेषं सुगममिति ॥ इन्द्राधिकारादेव तद्विमानान्याह - 'एते' इत्यादि, परियानं - देशान्तरगमनं तत् प्रयोजनं येषां तानि परियानिकानि गमनप्रयोजनानीत्यर्थः यानं - शिबिकादि तदाकाराणि विमानानि - देवाश्रया यानविमानानि न तु शाश्वतानि, नगराकाराणीत्यर्थः, पुस्तकान्तरे यानशब्दो न दृश्यते, 'पालए' इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानीति यावत्करणात् 'सोमणस्से ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, आभियोगिकाश्चैते देवा विमानीभवन्तीति । एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनीं प्रतिमां स्वरूपत आह
Jain Education International
दस दसमिता णं भिक्खुपडिमा णं एगेण रातिंदियसतेणं अद्धछट्ठेहि य भिक्खासतेहिं अहासुत्ता जाव आराधितावि भवति (सू० ७७० ) दसविधा संसारसमावन्नगा जीवा पं० तं० - पढमसमयएगिंदिता अपढमसमयएगिंदिता एवं जाव अपढमसमयपंचिंदिता १ दसविधा सव्वजीवा पं० तं० – पुढविकाइया जाव वणस्सइकातिता बेंदिया जाव पंचेंदिता अणिदिता २ अथवा दसविधा सव्वजीवा पं० तं० - पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा ३ ( सू० ७७१ )
For Personal & Private Use Only
१० स्थाना उद्देशः ३
कुलकराः
वक्षस्का
राद्याः
इंद्रायाः
प्रतिमा
जीवाश्च
सू० ७६७७७१
॥ ५१८ ॥
www.jainelibrary.org

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478