Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५२२॥
अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजोन प्रभवति, अत्रार्थे दृष्टान्तमाह-'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्खल्यभिधानमङपुत्रस्य, मङ्खश्च-चित्रफलकप्रधानो भिक्षुकविशेषः, 'तवेतेए'त्ति तपोजनितत्वात्तपः किं तत?-तेजस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्- यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ-महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच-यथा अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मङ्खलिनानो मङ्खस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षडू वर्षाणि यावच्छद्मस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो न च सर्वज्ञः, इदं च भगवद्वचनमनुश्रुत्य बहुजनो नगर्याः त्रिकचतुष्कादिषु परस्परस्य कथयामास-गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् , तमवादीच्च- भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोडार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाडुलवृक्षस्यान्तरद्राक्षुः, क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिविपुलममलजलमवापुः, तत्सयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुः, तयोः क्रमेण सुवर्ण च रत्नानि च समासादयामासुः, पुनस्तथैव चतुर्थ भिन्दानाः घोरविषमतिकायमअनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य.
१० स्थाना. उद्देशः३ मूलादीनि
श्रेणयः ||वेयकं तेजोलेश्याः सू०७७३
3435343495453
9454545454545
৩৩
॥
JainEducation
For Personal & Private Use Only
Mmjanelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478