Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SAMSUN
- ORLARI
इति 'भासं कुज्जत्ति प्रसिद्धमित्येकं, शेषाणि नवापि सुगमानि, नवरं 'से य अचासाइय'त्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तपक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ 'ते हओ'त्ति तौ द्वौ मुनिदेवौ 'पडिन्न'त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञो-कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगतावितियावदिति तृतीय, चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः षष्ठे उभाबिति, केवलमयं विशेषः 'तत्रे'ति | उपसर्गकारिणि 'स्फोटा' स्फोटकाः समुत्सद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते-स्फुटन्ति, ततस्ते भिन्नाः | सन्तस्तमेवोपसर्गकारिणं सह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् भस्म कुर्यु:निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुला:-पुलाकिका लघुत-12 रस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं, तत्र 'अचासाएमाणे'त्ति उपसर्ग कुर्वन् गोशालकवत्तेजो | निसृजेत् , 'से य तत्थति तच्च तेजस्तत्र-श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत् नो प्रक्रमते प्रकर्षेण न प्रभवती| त्यर्थः केवलं 'अंचिअंचिय'ति उत्सतनिपता पार्श्वतः करोति, ततश्चादक्षिणतः-पार्थात् प्रदक्षिणा-पार्श्वभ्रमणमाद-दू क्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्धम्-उपरि दिशि 'वेहासंति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च 'से'त्ति तत्से
जः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते प्रविनिवृत्त्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि | यतस्तन्निर्गतं तमनुदहन-निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं?-सह तेजसा वर्तमानं-तेजोलब्धिमत् भस्म कुर्यादिति,
SUSHISHUSHUSHI
SAXO
Jain Education
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478