Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
'दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, 'एकेने'त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, 'अहासुत्त'मित्यादि, अहासुत्तं-सूत्रानतिक्रमेण, यावत्करणात् 'अहाअत्थं' अर्थस्य-निर्युक्त्यादेरनतिक्रमेण 'अहातचं' शब्दार्थानतिक्रमेण 'अहामग्गं' क्षायोपशमिकभावानतिक्रमण 'अहाकप्पं तदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण 'फासिया' विशुद्धपरिणामप्रतिपत्त्या 'पालिया' सीमां यावित्तपरिणामाहान्या 'शोधिता'निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रति-8 ज्ञातकालोपर्यप्यनुष्ठानात् , कीर्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् 'भवति' जायत इति । प्रतिमाभ्यासः संसारक्षयार्थ संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च 'दसेत्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्त्वितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आह च-एवं जावेत्यादि, 'अणिदिय'त्ति अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति ॥ संसारिपर्यायविशेषप्रतिपादनायैवाह__वाससताउस्स णं पुरिसस्स दस दसाओ पं० २०-बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ ।
पवंचा ७ पन्भारा ८ य, मुंमुही ९ सावणी १० तधा ॥ (सू० ७७२) 'वासे'त्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद् वर्षशतायुष्का,
Jain Education
a
l
For Personal & Private Use Only
Mainelibrary.org

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478