Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 456
________________ श्रीस्थानागसूत्रवृत्तिः १० स्थाना. उद्देशः३ स्थविराः पुत्राश्च सू०७६१७६२ ॥५१६॥ पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १०॥ स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह -'दस पुत्ते'त्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः-सूनुः, तत्र आत्मनः-पितृशरीराज्जातः आत्मजः, यथा भरतस्यादित्ययशाः १, क्षेत्रं-भार्या तस्या जातः क्षेत्रजो, यथा पण्डोः पाण्डवाः लोकरूठ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डोः धर्मादिभिर्जनितत्वादिति २, 'दिन्नए'त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः, एवं सर्वत्र ३, 'विण्णए'त्ति विनयितः शिक्षा ग्राहितः, 'उरसे'त्ति उपगतोजातो रसः-पुत्रस्नेहलक्षणो यस्मिपितृस्नेहलक्षणो वा यस्यासावुपरसः उरसि वा-हृदये स्नेहाद्वर्त्तते यः स ओरसः ५, मुखर एव मौखरो-मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः ६, शोंडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, अथवाऽऽत्मज एव गुणभेदाद्भिद्यते, तत्र 'विन्नए'त्ति विज्ञका-पण्डितोऽभयकुमारवत् , 'उरसे'त्ति | उरसा वर्तत इति ओरसो-बलवान् बाहुबलीवत् शोण्डीरः-शूरः वासुदेववत् गर्वितो वा शौण्डीरः 'शौड ग' इति |वचनात् , 'संवुहे'त्ति संवर्धितो भोजनदानादिना अनाथपुत्रका ८, 'उवजाइय'त्ति उपयाचिते-देवताराधने भवः औ. |पयाचितकः, अथवा अवपात:-सेवा सा प्रयोजनमस्येत्यावपातिकः-सेवक इति हृदयं ९, तथा अन्ते-समीपे वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १०॥ धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनो|ऽनुत्तरज्ञानादित्वात् , कानि कियन्ति च तस्यानुत्तराणीत्याह ॥५१६॥ Jain Education a l For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478