Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 454
________________ श्रीस्थानागसूत्रवृत्तिः ॥५१५॥ RAKASGANGAROO सूत्रे च प्राकृतत्वात् आससप्पओगेत्ति भणितं, तत्र इह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः१०स्थाना. -प्राणिवर्गः स इहलोकस्तव्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्र- | उद्देशः३ वादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणा- आशंसा|दिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि प्रयोगाः किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विव- धर्माश्च क्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा-चिरं मे जीवितं भवत्विति जीविताशं- सू०७५९साप्रयोगः ४, तथा मरणं प्रत्याशंसा-शीघं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५, तथा कामौ-शब्दरूपे तौ मनोज्ञो ७६० | मे भूयास्तामिति कामाशंसाप्रयोगः ६, तथा भोगा-गन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः ७, तथा कीर्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८, तथा पूजा-पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोगः ९, सत्कारः -प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०॥ उक्तलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्म सामान्येन निरूपयन्नाह___ दसविधे धम्मे पं० २०-गामधम्मे १ नगरधम्मे २ रद्धधम्मे ३ पासंडधम्मे ४ कुलधम्मे ५ गणधम्मे ६ संघधम्मे ७ सुयधम्मे ८ चरित्तधम्मे ९ अत्थिकायधम्मे १० (सू० ७६०) ॥५१५॥ 'दसे'त्यादि, ग्रामा-जनपदाश्रयास्तेषां तेषु वा धर्मः-समाचारो व्यवस्थेति ग्रामधर्मः, स च प्रतिग्राम भिन्न इति, in Educa For Personal & Private Use Only anlmainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478