Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्कर करणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भा - व्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहिराजगृहे महावीरवन्दनार्थ सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्ठे गौतमेन भगवानवादीत् - वाराणस्यां नगर्यो भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्ममचकथत् प्रात्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तना परायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्मं कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रत्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयो| त्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः- सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव तदध्ययनानां पुनरयमर्थः - 'खुड्डिए 'त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिका विमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य - आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्त्तार्थसङ्ग्राहिका चूलिका, 'वग्गचूलिय'त्ति इह च वर्गः - अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका, 'विवाहचूलिय'त्ति व्याख्या - भगवती तस्याधूलिका
Jain Education International
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478