SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्कर करणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भा - व्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहिराजगृहे महावीरवन्दनार्थ सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्ठे गौतमेन भगवानवादीत् - वाराणस्यां नगर्यो भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्ममचकथत् प्रात्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तना परायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्मं कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रत्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयो| त्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः- सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव तदध्ययनानां पुनरयमर्थः - 'खुड्डिए 'त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिका विमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य - आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्त्तार्थसङ्ग्राहिका चूलिका, 'वग्गचूलिय'त्ति इह च वर्गः - अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका, 'विवाहचूलिय'त्ति व्याख्या - भगवती तस्याधूलिका Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy