Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
मोहनीयकर्मणो बन्धस्थानानि-बन्धकारणानि 'वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंसई'त्यादिकानि तत्रैव प्रसिद्धान मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९, 'आजाइहाण'मिति आजननमाजातिः-सम्मूर्छनगर्भो. पपाततो जन्म तस्याः स्थानं-संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १०॥ प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोकानां तूपमादीनामध्ययनानाम-8 क्षरार्थः प्रतीयमान एवेति, नवरं 'पसिणाईति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौ. मक-वस्त्रं अहागो-आदर्शः अङ्गुष्ठो-हस्तावयवः बाहवो-भुजा इति ॥ बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहि-राजगृहे महावीरस्य
चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चो-10 है वाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयो
पन्नो महाविदेहे च सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत् , नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच-बाणारस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत्-ते भंते! जवणिज', तथा 'सरिसवया मासा कुलत्था य ते भोज्जा? एगे भवं दुवे भव'मित्यादि, भगवता चैतेषु विभक्केष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकध
स्था०८६
dain Education
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478