________________
स्तम्भितौ स्तब्धीकृतौ भुजौ-बाहू यस्य स तथा । 'अंगदे'त्यादि, कर्णावेव पीठे-आसने कुण्डलाधारत्वात्कर्णपीठे, मृष्टे-| घृष्टे गण्डतले च-कपोलतले च कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपदः प्राकृतत्वात्कर्मधारयः, अङ्गदे च-केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति यः स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचि त्राणि-विविधानि हस्ताभरणानि-अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि अवस्थाभरणानि वा-अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च-पुष्पमाला मौलिश्च-शेखरो यस्य विचित्रमालानां वा मौलिर्यस्य स तथा, कल्याणकानि-माङ्गल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि येन तान्येव वा परिहितो-निवसितो यः स तथा, कल्याणक प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्य-मालायां साधु पुष्पमित्यर्थः अनुलेपनं च-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीपा बोन्दी-श-|| रीरं यस्य स तथा, प्रलम्बा या वनमाला-आभरणविशेषस्तां धारयति यः स तथा, दिव्येन-स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन संहननेन-वज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरस्रलक्षणेन ऋद्ध्याविमानादिरूपया युक्त्या-अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावेन माहात्म्येनेत्यर्थः, छायया-प्रतिबिम्बरूपया अचिषा-शरीरनिर्गततेजोज्वालया तेजसा-शरीरस्थकान्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः-स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु-सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोषः, उत्कर्षप्रति
dain Educ
For Personal & Private Use Only
Jainelibrary.org