Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
वत्, इहोक्तम् - " आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा । एवं खु तयं सेयं जायइ सइ निज्जररा हेऊ ॥ १ ॥” | इति [ कार्ये गुरोः तत्संमतस्य वा नियमादाप्रच्छनं एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः ॥ १ ॥] तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह - "पडिपु - च्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि । कज्जन्तरादिहेडं निद्दिट्ठा समय केऊहिं ॥ १ ॥” इति [कार्ये पूर्वं नियुक्तस्य करणकाले प्रतिप्रच्छना कार्यान्तरार्थं समय केतुभिर्निर्दिष्टा ॥ १ ॥ ] तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि - "पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा णेयेह विसेसविसयत्ति ॥ १ ॥” [पूर्वगृहीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छंदना ॥ १ ॥] तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि – “ सज्झाया उब्वाओ ( श्रान्तः > गुरुकिच्चे सेसंगे असंतंमि । तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्जा ॥ १ ॥” इति [ स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति तं पृष्ट्वा कार्ये शेषाणां निमंत्रणं कुर्यात् ॥ १ ॥] तथा 'उवसंपय'त्ति उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि - " उवसंपया य वितिहा नाणे तह दंसणे चरित्ते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ १ ॥ वत्तणसंघणगहणे सुत्तत्थोभयगया उ एसत्ति । वेयावच्चे खमणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478