Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 439
________________ दिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छनिकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४, 'माहणे'त्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, स चान्तःपुरव्यतिकरे उदयनेन | राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुज-18 यार्थ ब्राह्मणादिभिर्होमं चकार, तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मा स्यामष्टावष्टौ संवत्सरे षोडश २ परचक्रागमे अष्टशतं २ परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मण६ वक्तव्यतानिबद्धं पञ्चममिति ५, 'नन्दिसेणे य'त्ति मथुरायां श्रीदामराजसुतो नंदिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतः नरकं गतवानित्येवमर्थ षष्ठमिति ६, 'सोरिय'त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः, स च मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, स च जन्मान्तरे नन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीको नाम महानसिकोऽभूत् जीवघातरतिः मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तम, इदं चाध्ययनं विपाकश्रु-8 है तेऽष्टममधीतं ७, 'उदुम्बरे'त्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नाम्नाऽभूत् , स च षोडश भिरॊगैरेकदाभिभूतो महाकष्टमनुभूय मृतः, स च जन्मान्तरे विजयपुरराजस्य कनकरथनानो धन्वन्तरिनामा वैद्य Jain Education a l For Personal & Private Use Only anelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478