Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
| साविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून् उपासते - सेवन्त इत्युपासकाः - श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, तथा अन्तो- विनाशः स च कर्म्मणस्तत्फलभूतस्य धा 'संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृद्दशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितं तथा उत्तरः- प्रधांनो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्ध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा दशा - दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनात्मिका आचारदशाः, दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नाश्च पृच्छाः व्याकरणानि च-निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा:-दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशा दीर्घदशा सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति । कर्म्मविपाकदशानामध्ययनविभागमाह - 'कम्मे' त्यादि, 'मिगेत्यादि श्लोकः सार्द्धः, मृगा - मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो ?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु स्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ
Jain Educational
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478