Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
+4+4
+3+3455+5+-
ननगरवासी महर्द्धिको गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमाः कृत्वोखन्नावधिज्ञानो मासिक्या संलेखनया है सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्ययनं आनन्द एवोच्यत इति १, 'कामदेवेत्ति कामदेवश्चम्पानगरीवास्त
व्यस्तथैव प्रतिबुद्धः परीक्षाकारिदेवकृतोपसर्गाविचलिसप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थ द्वितीयं कामदेव इति २, 'गाहावह चूलणीपिय'त्ति चुलनीपितृनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते ३, 'सुरादेवे'त्ति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य षोडश रोगातकान् भवतः शरीरे समकमुपनयामि यदि धर्म न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुनरालोचितप्रतिक्रान्तस्तथैव | दिवं गत इतिवक्तव्यताभिधायक सुरादेव इति ४, 'चुल्लसयए'त्ति महाशतकापेक्षया लघुः शतक: चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपहियमाणमुपलभ्य चलितप्रतिज्ञः पुननिरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तचुल्लशतक इति ५, 'गाहावइ कुंडकोलिए'त्ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति ६, 'सद्दालपुत्ते'त्ति सद्दालपुत्रः पोलासपुरवासी कुम्भकारजातीयो गोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेनाक्षोभितान्तःकरणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिज्ञः पुनरपि कृतालोच-| नस्तथैव दिवं गत इतिवक्तव्यताप्रतिबद्धं सद्दालपुत्र इति ७, 'महासयए'त्ति महाशतकनाम्नो गृहपते राजगृहनगरनि
Jain Educatiod
s onal
For Personal & Private Use Only
Sr.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478