Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 440
________________ श्रीस्थानाअसूत्र- वृत्तिः | आसीत् मांसप्रियो मांसोपदेष्टा चेतिकृत्वा नरकं गतवानित्यष्टमं ८, 'सहसुद्दाहेत्ति सहसा-अकस्मादुद्दाहः-प्रकृष्टो दाहः सहसोहाहः सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, 'आमलए'त्ति रश्रुतेर्लश्रुतिरित्यामरकः-सामरत्येम मारिः, एवमर्थप्रतिबद्धं नवम, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामेकोनपञ्चशतान्युपनिमन्य महत्यगारे आवास दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारवन्धनपूर्वकमग्निप्रदानेन दग्धवान् ततोऽसौ राजा मृत्वा च षष्ठ्यां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत् सा च पुष्पनन्दिना राज्ञा परिणीता स च मातुर्भक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया च भोगविघ्नकारिणीति तन्मातुर्बललोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिर्विडम्ब्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति ९, तथा 'कुमारे लेच्छई इय'त्ति कुमारा-राज्यार्हाः, अथवा कुमारा:-प्रथमवयस्थास्तान 'लेच्छई इय'त्ति लिप्सूंश्च-वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च, अयमत्र भावार्थः-यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदा-| रान् भोगान् भुक्तवती षष्ठ्यां च गत्वा बर्द्धमाननगरे धनदेवसार्थवाहदुहिता अतरित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छं जीवित्वा नरकं गतेति, अत एव विपाकश्रुते अङ्ग इति दशममध्ययनमुच्यत इति १०॥ उपासकदशा विवृण्वन्नाह-दसेत्यादि, 'आनन्दे' सार्धः श्लोक, 'आमंदेत्ति आनन्दो वाणिजनामाभिधा १० स्थाना. उद्देशः३ छद्मस्थेत| राज्ञेयज्ञे याः कर्मविपाकदशाज्ञा सू०७५५७५६ ॥५०८॥ Join Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478