SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ | साविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून् उपासते - सेवन्त इत्युपासकाः - श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, तथा अन्तो- विनाशः स च कर्म्मणस्तत्फलभूतस्य धा 'संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृद्दशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितं तथा उत्तरः- प्रधांनो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्ध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा दशा - दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनात्मिका आचारदशाः, दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नाश्च पृच्छाः व्याकरणानि च-निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा:-दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशा दीर्घदशा सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति । कर्म्मविपाकदशानामध्ययनविभागमाह - 'कम्मे' त्यादि, 'मिगेत्यादि श्लोकः सार्द्धः, मृगा - मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो ?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु स्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ Jain Educational For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy