Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 429
________________ ** * यति निदर्शयति 'उवदंसेइ'त्ति सकलनययुक्तिभिरिति ३, 'चाउव्वण्णाइण्णे'त्ति चत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्ण तदेव चातुर्वण्य तेनाकीर्णः-आकुलश्चातुर्वर्ण्याकीर्णः अथवा चत्वारो वर्णाः-प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात् , चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, 'चउविहे देवे पनवेईत्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति-सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावत्, लोकेभ्यो वा तान् प्रकाशयति, 'अणंते' इत्यादौ सूत्रे यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः-वैमानिकज्योतिष्कर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे 'उराल'त्ति प्रधानाः कीर्तिः सर्वदिग्व्यापी साधुवादः वर्ण:-एकदि|ग्व्यापी शब्दः-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते 'परिगुव्वंति' परिगुप्यन्ति व्याकुलीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते-गूड्धातोःशब्दार्थत्वात् संशब्द्यते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिः-एवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, 'महावीर' इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थ चेति, 'आघवेईत्यादि पूर्ववत् । स्वमदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह *SRASS ES dain Education For Personal & Private Use Only wagainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478