________________
**
*
यति निदर्शयति 'उवदंसेइ'त्ति सकलनययुक्तिभिरिति ३, 'चाउव्वण्णाइण्णे'त्ति चत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्ण तदेव चातुर्वण्य तेनाकीर्णः-आकुलश्चातुर्वर्ण्याकीर्णः अथवा चत्वारो वर्णाः-प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात् , चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, 'चउविहे देवे पनवेईत्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति-सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावत्, लोकेभ्यो वा तान् प्रकाशयति, 'अणंते' इत्यादौ सूत्रे यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः-वैमानिकज्योतिष्कर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे 'उराल'त्ति प्रधानाः कीर्तिः सर्वदिग्व्यापी साधुवादः वर्ण:-एकदि|ग्व्यापी शब्दः-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते 'परिगुव्वंति' परिगुप्यन्ति व्याकुलीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते-गूड्धातोःशब्दार्थत्वात् संशब्द्यते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिः-एवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, 'महावीर' इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थ चेति, 'आघवेईत्यादि पूर्ववत् । स्वमदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह
*SRASS ES
dain Education
For Personal & Private Use Only
wagainelibrary.org