Book Title: Sthanangsutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
सम्यक्त्वावारकरागद्वेषमोहाज्ञानानि यस्यापगतानि भवंति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति ॥१४'सुत्तबीयरुईमेव'त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च-"जो सुत्तमहिजतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो ॥१॥” इति [यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अंगेनांगबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः॥१॥] तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य टेकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च–“एगपएणेगाइं पयाई जो पसरई उ सम्मत्ते । उदएब्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१॥" [एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वं उदके इव तैलबिन्दुः स बीजरुचिरिति ज्ञातव्यः ॥१॥] इति, 'एवेति समुच्चये, तथा 'अभिगमवित्थाररुइ'त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र-“सो होइ अभिगमरुई सुअनाणं जस्स अथओ दिहूँ । एक्कारस अंगाई पइन्नयं दिहिवाओ य ॥१॥” इति [सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टं एकादशांगानि प्रकीर्णकानि दृष्टिवादश्च ॥१॥] तथा विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च-“दवाण सवभावा सव्वपमाणेहिं
Jain Education
For Personal & Private Use Only
m
e
library.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478