SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ वत्, इहोक्तम् - " आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा । एवं खु तयं सेयं जायइ सइ निज्जररा हेऊ ॥ १ ॥” | इति [ कार्ये गुरोः तत्संमतस्य वा नियमादाप्रच्छनं एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः ॥ १ ॥] तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह - "पडिपु - च्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि । कज्जन्तरादिहेडं निद्दिट्ठा समय केऊहिं ॥ १ ॥” इति [कार्ये पूर्वं नियुक्तस्य करणकाले प्रतिप्रच्छना कार्यान्तरार्थं समय केतुभिर्निर्दिष्टा ॥ १ ॥ ] तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि - "पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा णेयेह विसेसविसयत्ति ॥ १ ॥” [पूर्वगृहीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छंदना ॥ १ ॥] तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि – “ सज्झाया उब्वाओ ( श्रान्तः > गुरुकिच्चे सेसंगे असंतंमि । तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्जा ॥ १ ॥” इति [ स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति तं पृष्ट्वा कार्ये शेषाणां निमंत्रणं कुर्यात् ॥ १ ॥] तथा 'उवसंपय'त्ति उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि - " उवसंपया य वितिहा नाणे तह दंसणे चरित्ते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ १ ॥ वत्तणसंघणगहणे सुत्तत्थोभयगया उ एसत्ति । वेयावच्चे खमणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy