________________
सातत्यादिना धर्म कर्मचैतन्यादि जीवद्रव्यमनादिनित तथा
CARROROSCARROTOCOCCAGRA
वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितं च अभावितं च भावताभावितम् , एवम्भूतो विचारो द्रव्यानुयोग इति ६, तथा 'बाहिराबाहिरे'त्ति बाह्याबाह्य, तत्र जीवद्रव्यं बाह्य चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात्तदेवाबाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादि त्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति ७, तथा 'सासयासासए'त्ति शाश्वताशाश्वतं, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाण'त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात् , अथवा यथा तद्वस्तु तथैव ज्ञान-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं, घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, 'अतहणाणे'त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि-एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०॥ पुनर्गणितानुयोगमेवाधिकृत्योसातपर्वताधिकारमच्युतसूत्रं यावदाह
चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिच्छिकूडे उत्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं० । चमरस्स णं असुरिन्दस्स असुरकुमाररन्नो सोमस्स महारत्नो सोमप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं पं० । चमरस्स णमसुरिंदुस्स असुरकुमाररण्णो जमस्स महारनो
स्था०८१
Jain Educationa
l
For Personal & Private Use Only
Aamjainelibrary.org