________________
दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह
दसविहे दवियाणुओगे पं० २०-दवियाणुओगे १ माउयाणुओगे २ एगट्ठियाणुओगे ३ करणाणुओगे ४ अप्पितण| प्पिते ५ भाविताभाविते ६ बाहिराबाहिरे ७ सासयासासते ८ तहणाणे ९ अतहणाणे १० (सू० ७२७)
'दसविहे दविए'त्यादि, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात् , तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र 'दवियाणुओगे'त्ति यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति-गच्छति तांस्तान् पर्यायान् यते वा तैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि | सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्ववाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः १, तथा 'माउयाणुओगे'त्ति इह मातृकेव मातृका-प्रवचनपुरुषस्योसादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो, यथा उसादवजीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुसत्तिदर्शनाद् अनुसादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः, तथा व्ययवजीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्सादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा
Jain Education
For Personal & Private Use Only
nerary or