________________
श्रीस्थाना- गसूत्र
PROCESA
S
वृत्तिः
१०स्थाना. उद्देशः३ दृष्टिवादनामानि सू०७४२
॥४९१॥
SHRECOMMERCOCOLLL
कश्चित् कस्मिंश्चित्प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह । भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो दशधाऽऽह
दिट्ठिवायस्स णं दस नामधेजा पं० २०-दिट्टिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्मावातेति वा
धम्मावातेति वा भासाविजतेति वा पुव्वगतेति वा अणुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा (सू० ७४२) 'दिट्ठी'त्यादि, दृष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपातः, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दो विकल्पे, तथा हिनोति-गमयति जिज्ञासितमर्थमिति हेतुः-अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः-सद्भूताः पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि-वस्तूनामैदम्पर्याणि तेषां वादस्तत्त्ववादस्तथ्यो वा-सत्यो वादस्तथ्यवादः, तथा सम्यग्-अविपरीतो वादः सम्यग्वादः, तथा धर्माणां-वस्तुपर्यायाणां धर्मस्य वा-चारित्रस्य वादो धर्मवादः, तथा भाषा-सत्यादिका तस्या विचयो-निर्णयो भाषाविचयः, भाषाया वा-पाचो विजयः-समृद्धियस्मिन् स भाषाविजयः, तथा सर्वश्रुतात्पूर्व क्रियंत इति पूर्वाणि-उत्पादपूर्वादीनि चतुर्दश तेषु गतःअभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोगः-प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तरविमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगतानुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्ती अवयवे समुदायोपचारादिति, तथा सर्वे-विश्वे ते
ARILORRAIG
Jain Educational
For Personal & Private Use Only
ainelibrary.org