________________
८ स्थाना० उद्देशः३ अक्रियावादिनः सू०६०७
श्रीस्थाना- क्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोः दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च लसूत्र- | विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ५, तथा समुच्छेद-प्रतिक्षणं निरन्वयनाशं वदति यः वृत्तिः
स समुच्छेदवादी, तथाहि-वस्तुनः सत्त्वं कार्यकारित्वं, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्य
|च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, न चेदेवं प्रतिक्षणं स्व॥४२६॥
भावान्तरोसत्त्या नित्यत्वहानिरिति, योगपोनापि न करोति अध्यक्षसिद्धत्वाद्यौगपद्याकरणस्य, तस्मात् क्षणिकमेव वस्तु कार्य करोतीति, एवं च अर्थक्रियाकारित्वात् क्षणिक वस्त्विति, अक्रियावादी चायमित्थमवसेयः-निरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्यासङ्ख्येयसमयसम्भ|व्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यादत एवैकान्त
क्षणिकात् कुलालादेः सकाशादर्थक्रिया न घटत इति, तस्मात् पर्यायतो वस्तुसमुच्छेदवद् द्रव्यतस्तु न तथेति ६, तथा| नियत-नित्यं वस्तु वदति यः स तथा, तथाहि-नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुसादविनाशयोः, तथा अ|सतोऽनुसादाच्छशविषाणस्येव सतश्चाविनाशात् घटवत् , नहि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् , तासां चापारमार्थिकत्वात् , मृत्सामान्यस्यैव पारमार्थिकत्वात् , तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेका
न्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७, तथा 'न सन्ति परलोगे वा' इति नेति-न विद्यते है शान्तिश्च-मोक्षः परलोकश्च-जन्मान्तरमित्येवं यो वदति स तथा, तथाहि-नास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात्
॥४२६॥
Jain Education Malhal
For Personal & Private Use Only
ww.jainelibrary.org