Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्या पञ्चमः सर्गः [267 भगवति शान्तिनाथेऽर्हति / धृतध्यानधने-धृतं सम्पादितं ध्यानं शुक्लथ्यानमेव धनं येन तस्मिंस्तथा सतीति शेषः / तु-पुनः / यथान्तिकस्थामरभक्तिवृष्टिभिः-अन्तिकं सान्निध्यमनतिक्रम्येति यथान्तिकस्था येऽमराः सुराः तैः भक्त्या प्रवीभावेन कृता वृष्टयो वर्षाणि ताभिस्तथा / तत्क्षणम्-सद्यः / नवम्-नूतनम् / सर:-सरोवरः / अभूत्-अजनि / यत्प्रभवा-यदुत्पन्ना / सरोजिनी-कमलिनी, पद्मिनीति यावत् / अपि-साऽपि / श्रिया-लक्ष्म्या, शोभयेतियावत् / 'शोभासम्पत्तिपद्मासु, लक्ष्मीः भोरिव कथ्यते' इति यादवः / अप्सरायिता-अप्सरोवदाचरिता। 'ओजोऽप्सरसः / 3 / 4 / 28 // इति क्या सलोपश्च / अत्रार्थेऽभियुक्तोक्तिरपि' 'ओजोऽप्सरसो नित्यमितरेषां विभषये' ति / (उपामाऽथांपत्तिश्चालङ्कारौ) // 16 // यदम्बुपूरप्रतिविम्बितायति-गणो ग्रहाणां पुरतोऽर्हतः प्रभोः / / तरस्तरङ्गेषु भवार्णवान्तरं, स्वमाह तीर्णं नटनेऽतिपाटवात् // 17 // अन्वयः-यदम्बुपूर प्रतिबिम्बितायतिः, ग्रहाणाम् , गणः, प्रभोः, अर्हतः, पुरतः, भवार्णवान्तरम् , नरङ्गेषु, तरन् , नटगे, अतिपाट वात् , स्वम् , तीर्णम् , आह // 17 // वृत्तिः–यदम्बुपूरप्रतिविम्बितायतिः-यस्य-तडागस्य, अम्बुनो-जलस्य, पूरे-प्रवाहे, प्रतिबिम्बिता-प्रतिफलिता, आयतिAध्यं यस्य स तथा। ग्रहाणाम्-सूर्याचन्द्रमःप्रमुखाणाम् / गणःसमूहः / प्रभोः-स्वामिनः / अत:-जिनेश्वरस्य / पुरतः- अग्रतः / भवार्णवान्तरम्-संसारसागरमध्यम् / तरङ्गेषु-भङ्गेषु / तरन्-प्लवन / नटने-नर्तने / अतिलाघवात्-अत्यन्तचातुर्यात् / स्वम्-आत्मानम् / तीर्णम्-पारितभवसागरम् / आह-ब्रवीति, कथयतीति यावत् // 17 // वने स्थितावस्य च चामरक्रियां, मरुत्तरङ्गैस्तरलस्तटद्रुमः / सदातपत्रायितपल्लवोच्चय-श्चकार सत्कारपदं दिवौकसाम् // 18 // अन्वयः--च, अस्य, वने, स्थिती, चामरक्रियाम् , मरुत्तरङ्ग, तरलः, सदातपत्रायितपल्लवोच्चयः, तटद्रुमः दिवौकसाम् , सत्कारपदम् , चकार // 18 // वृत्तिः-च-पुनः / अस्य-भगवतः शान्तिनाथस्य / वने-तपस्यासाधननिदानकानने / स्थितौ-अवस्थाने / सत्यामितिशेषः / चामरक्रियाम्-चामरनिर्वहँकार्य्यम् / मरुत्तरङ्गैः-पवनसम्बन्धिभङ्गः / तरल:-चञ्चलः / चलाचल इति यावत् / सदातपत्रायितपल्लवोच्चयः-सदा सर्वदा, आतपत्रायितः आतपत्रं-छत्रम् , तद्वदाचरितः, पल्लवोच्चयः-किसलयप्रकरो यस्मिन् स तथा / तटद्रम:

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388