Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 322] ... श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे : . स्तूपतटेषु, विलुट्य, क्रमात् , च, त्यक्तशुचः, दिवम् , ययुः // 50 // वृत्तिः-ते-प्रसिद्धाः / सुरेश्वराः-चतुःषष्टिरिन्द्राः / सोत्सवम्-उत्सवेन सहितं तथा / समहमिति यावत् / कल्याणककर्म-निर्वाणकल्याणकक्रियाकलापम् / विधाय-कृत्वा / कुलायकूलेषुनीड तटेषु / 'कुलायो नोडे' 4-385 / इत्यभि० चि० / खगाः-पक्षिणः / इव-यथा / तेषु-भगवदादिदेहाग्निसंस्कारभूभागविहितेषु / स्तूपतटेषु-स्तूपप्रान्तभागेषु / विलुट्य-लुठित्वा / क्रमातक्रमशः / च-समुच्चये / त्यक्तशुचः-त्यक्ता शुक्-शोचनं खेद इति यावद् यैस्ते तथा / सन्त इति शेषः / दिवम्-स्वर्गम् / ययुः-जग्मुः / अगच्छन्निति यावत् // 50 // ततो विजहुर्गणिनः ससंयता, उपासकैर्भूपतिभिः कृतार्चनाः। चिरेण लब्धा बहुभिर्मनोरथै-रुपादिशन्तः प्रभुशान्तिशासनम् // 51 // अन्वयः-ततः, बहुभिः, मनोरथैः, चिरेण, लब्धाः, उपासकै, भूपतिभिः, कृतार्चनाः, ससंयताः, गणिनः, प्रभुशान्तिशासनम् , उपादिशन्तः, (सन्तः) विजयुः // 51 // वृत्तिः-ततः तदनन्तरम् / बहुभिः-अतिशयितैः / मनोरथैः-अभिलाषैः / चिरेणबहुकालेन / लब्धा-प्राप्ताः / उपासकः-श्रमणोपासकैः, श्रावकैरिति यावत् / भूपतिभि:-राजभिः / कृतार्चना:-कृतं विहितमर्चनं पूजनम् येषान्ते तथा / ससंयता:-ससाधवः / मुनिवरपरिवारैः परिव्रता इति यावत् / गणिनः-गणाधीशाः / प्रभुशान्तिशासनम्-प्रभुः स्वामी चासौ शान्तिः शान्तिनाथः प्रभुशान्तिस्तदीयं शासनम् प्रभुशान्ति शासनम् , तत्तथा / उपादिशन्तः-उपदेशयन्तः / सन्त इति शेषः / विजः-विहृतवन्तः / / 5 / / प्रभोविमुक्तेः पदमाश्रिताः सुरा, अपूपुरन्नीप्सितमंहिसेविनाम् / कदापि साक्षाद् भवनात् कदाचन, गताःक्षणेनाऽस्फुटितेक्षणा ममम॥५२॥ अन्वयः- प्रभोः, विमुक्तः, पदम् , आश्रिताः, सुराः, कदापि, साक्षाद्भवनात् , कदाचन, क्षणेन, अस्फुटितेक्षणाः, ममम् , गताः, (सन्तः) अंहिसेविनाम् , ईप्सितम् , अपूपुरन् // 52 // वृतिः-प्रभोः-भगवतः शान्तिनाथस्य / विमुक्तेः-विमोक्षस्य, कैवल्यस्येति यावत् / पदम्-स्थानम् / यत्स्थानावच्छेदेन भगवता मुक्तिरधिगता तत्स्थानमित्यर्थः। आश्रिताः-अवलम्बिताः /

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388