Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ टीकाकर्तुः प्रशस्तिः योऽर्हनित्यमबूबुधत् त्रिभुवनं मोहप्रमीलाविलं, - सम्यक्तत्त्वमतत्त्वतत्वदहन, विश्वेऽखिलेऽदीदिपत् / राग रङ्कुसमानमुद्दलयितुं, सिंहं क्रमेऽदीधरत्, स श्रीवीरजिनेश्वरो विजयते, तीर्थाधिराजः स्वयम् // 1 // तत्पट्टे सुरराजराजितदिशि, प्रांशुः सुधर्मा प्रभु, स्तत्पश्चात् क्रमशः परेऽजनिषतो-द्यकीर्तयः सूरयः / जातस्तेषु नतेषु कामितफलः, श्रीहीरसूरीश्वरो, येनास्मिन् कलिकालकालसमये, धर्मार्थमभ्युद्यतम् // 2 // तस्यैवान्वयवार्धिवर्धनशशी, श्रीवृद्धिचन्द्रो गुरु स्तत्पादाम्बुजसेवनाप्तसुषमः, श्रीनेमिसूरीश्वरः / सम्भूतो वरतीर्थरक्षणविधी, वैदुष्यपूर्णस्तपा गच्छाधीश्वरसर्वतन्त्रविदुरः, सदूरदर्शी वशी // 3 // यः सद्भूतयशस्सुधाधवलितं, चक्रे जगद् यं बुधाः, सेवन्ते विजयो नयेन विधिवद् येनात्मनाधिष्ठितः / यस्मै ऋभ्यति रोषणः परुषितो, यस्माद्विभूतिः परा, यस्य ब्रह्मबलं नितान्तविमलं, यस्मिन् महोचं महः // 4 //

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388