Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ 332 ] श्रीजननैषधोयमहाकाव्ये श्रीशान्तिनाथचरित्र अन्वयः-तदनु, दनुजपूज्यः, निरुपममहिमायः, सर्ववित्सार्वभौमः, वीरनामा, तीर्थकृत् , ( जयति ), तदनु, गणधरालीपूर्वदिग्भानुमाली, हीरपूर्वम्, अपूर्वम्, विजयपदम् , दधानः, (जयति ) // 2 // वृत्तिः–तदनु-ततः-कियत्कालानन्तरम् तत्पश्चादिति यावत् / दनुजपूज्यः-दनोस्तन्नामकदेवयोनिविशेषाज्जाता दनुजास्तैः पूज्योऽर्चनीयः, सेवनीय इति यावत् , सुरासुरवृन्दवन्दनीय इति यावत् / निरूपममहिमा ट्यः-उपमायाः-सादृश्यान्निर्गतो निरुपमः स चासौ महिमा-माहात्म्यम् , निरूपममहिमा, तेन आढ्यः श्रेष्ठस्तथा / सर्ववित्सार्वभौमः-सर्व-निखिलं, विदन्ति-जानन्ति सर्व विदः सर्वज्ञा, जिनेश्वरा इत्यर्थः, तेषु सार्वभौमश्चक्रवर्ती तथा, सर्वजिनेश्वरश्रेष्ठ इति भावः / वीरनामा-महावीराभिधानः / तीर्थकृत्-तीर्थङ्करः / (जयति-सर्वोत्कृष्टेन वर्तते) तदनु-तत्पश्चात्। . गणधरालीपूर्व दिग्भानुमाली-गणधराणां-गणाधीशानामाली पङ्क्तिः, कदम्बकमित्यर्थः, सैव पूर्वदिक्-महेन्द्रकाष्ठा, गणधरालीपूर्वदिक् तत्र भानुमाली सूय्यः, तद्रूप इत्यर्थः। हीरपूर्वम्-होरेत्यक्षरद्वयपूर्वम् / अपूर्वम्-लोकोत्तरम् / विजयपदम्-विजयेत्याकारकमास्पदवाचकं शब्दविशेषमित्यर्थः / दधानः-धारयन् , विजयहीररिरित्यर्थः / (जयति-सर्वोत्कर्षेण वर्तते) // 2 // कनकविजयशर्माऽस्यान्तिपत्प्रौढधर्मा, शुचितरवरशीलः शीलनामा तदीयः / कमलविजयधीरः सिद्धिसंसिद्धिवीर-स्तदनुज इह रेजे वाचकश्रीशरीरः // 3 // चारित्रशब्दाद् विजयाभिधान-स्त्रयी सगर्भा धृतशीलधर्माः। एषां विनेयाः कवयः कृपाद्याः, पद्यास्वरूपाः समयाम्बुराशौ // 4 // अन्वयः-अस्य. प्रौढधर्माः कनकविजयशर्मा, अन्तिषत् , तदीयः, शुचितरवरशीलः, शीलनामा, ( तदीयः ), सिद्धिसंसिद्धिवीरः, कमलविजयधीरः, तदनुजः, वाचकश्रीशरीरः, चारित्रशब्दात् , विजयाभिधानः, इह, रेजे / धृतशीलधर्मा, त्रयी, सगर्भा, (आसीत्), एषाम् , समयाम्बुराशौ, पद्यास्वरूपाः, कृपाद्याः, कवयः, विनेयाः, (बभूवुः) // 3-4 // वृत्तिः-अस्य-महात्महीरसरिवर्यस्य / प्रौढधर्माः-प्रौढः-प्रौढिमुपगतो धर्मो वृषः सुकृतमिति यावद्यस्य स तथा / अत्यन्तधर्मशील इत्यर्थः / कनकविंजयशर्मा-कनकविजयाभिधानः / अन्तिपत्-अन्तेवासी शिष्य इति यावत् / तदीयः-तस्य कनकविजयशर्मगोऽयन्तदीयस्तत्सम्बन्धीति यावत् / शुचितरवरशील:-शुचितरं-पवित्रतरं, वरं-समीचीनं, शोलं-चारित्रं यस्य स तथा /

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388